६.६४
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥
सञ्जीविनीटीका (मल्लिनाथः) ताम्बूलेति॥ ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु। ताम्बूलवल्ली ताम्बूली नागवल्ल्यपिइति, घोण्टा तु पूगः क्रमुकः इति चामरः। एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् इत्यमरः (अमरकोशः २.६.१३२ ) । तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु। कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि इत्यमरः (अमरकोशः २.६.१३२ ) । मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ता म्बू ल्लीरिद्ध पू गा
स्वे ला ता लिङ्गिन्द नासु
मा त्रास्त णासु न्तुं
प्र सी श्वन्मस्थ लीषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.