६.३२
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥
सञ्जीविनीटीका (मल्लिनाथः) अवन्तीति॥ उदग्रबाहुर्दीरघबाहुर्विशालवक्षास्तनुवृत्तमध्यः कृशवर्तुलमध्योऽयं राजाऽवन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा। भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः। चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम्। भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके इति विश्वः। आरोप्ययत्नेनोल्लिखित उष्णतेजाः सूर्य इव विभाति। अत्र मार्गण्डेयः-विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता। भ्रममारोप्य तत्तेजः शातनायोपचक्रमे ॥ इति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
न्ति ना थोऽयमुग्र बाहु
र्वि शा क्षास्तनु वृत्त ध्यः
रोप्य क्रभ्र मुष्ण ते जा
स्त्व ष्ट्रे त्नोल्लिखि तोवि भाति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.