५.५७
संमोहनं नाम सखे! ममास्त्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥
सञ्जीविनीटीका (मल्लिनाथः) संमोहनमिति॥ हे सखे! सखिशब्देन समप्राणतोक्ता। यथोक्तम्-अत्यागसहनो बन्धुः सदैवानुमतः सुहृत्। एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ॥ इति॥ प्रयोगसंहारयोर्विभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम्। संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण। यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोऽरिहिंसा न च विजयश्च हस्ते। हस्तगतो विजयो भवतीत्यर्थः॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सं मो नं ना खे मा स्त्त्रं
प्र यो सं हाविक्त न्त्रम्
गा न्धर्व मात्स्व तःप्र योक्तु
र्न चारि हिं साविश्च स्ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.