५.४१
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ उपकार्यासु राजयोग्येषु पटभवनादिषु। सौधोऽस्त्री राजसदनमुपकार्योपकारिका इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति। रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः। वन्या वने भवा इतरे येषां ते वन्येतराः। अवन्या इत्यर्थः। न बहुव्रीहौ (अष्टाध्यायी १.१.२९ ) इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव। तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः। पुमानाक्रीड उद्यानम् इत्यमरः (अमरकोशः २.४.३ ) । तान्येव विहारा विहारस्थानानि तत्कल्पाः। तत्सदृशा इत्यर्थः। ईषदसमाप्तौ- (अष्टाध्यायी ५.३.६७ ) इति कल्पप्प्रत्ययः। बभूवुः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्यो का र्याचि तो चा रा
न्ये रा जा दो दा भिः
मा र्गेनि वा सानु जेन्द्र सू नो
र्ब भूवु रु द्यावि हा ल्पाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.