४.८५
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ जिष्णुर्जयशीलः। ग्लाजिस्थश्च ग्स्नुः (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुप्रत्ययः। स रघुरितीत्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु। रघोरेकच्छत्रकत्वादिति भावः। राज्ञां मौलिषु किरीटेषु। मौलिः किरिटे धम्मिल्लेचूडाकंकेलिमूर्धजे इति हैमः। विश्रामयन्। संक्रामयन्नित्यर्थः। न्यवर्तत निवृत्तः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति जि त्वादि शो जिष्णु
र्न्यर्त थोद्ध तम्
जो वि श्रा न्रा ज्ञां
त्र शू न्येषु मौलिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.