४.३
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥
सञ्जीविनीटीका (मल्लिनाथः) पुरुहूतेति॥ पुरुहूतध्वज इन्द्रध्वजः। स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर!। पर्यन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः॥ इति। चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्टितम्। आहुः शक्रध्वजं नाम पौरलोकसुखावहम्॥ इति च। पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः। उदूर्द्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजाः जनाः। प्रजा स्यात्संततौ जने इत्युत्रयत्राप्यमरः। ननन्दुः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पुरु हूध्व स्ये
स्योन्नङ्क्त यः
वा भ्यु त्था र्शि न्यो
न्दुःप्र जाःप्र जाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.