४.१०
नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् ।
पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥
सञ्जीविनीटीका (मल्लिनाथः) नयविद्भिरिति॥ नयविद्भिर्नीतिशास्त्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये। तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकम्, असत् कूटयुद्धादिकं चोपदर्शितम्। तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत्। संकान्त इत्यर्थः। उत्तरः पक्षो नाभवत्। न संक्रान्त इत्यर्थः। तत्र सदसतोर्मध्ये सदेवाभिमतं नासत्। तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः। पक्षः साधनयोग्यार्थः। पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु इति केशवः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि द्भिर्न वे राज्ञि
ञ्चोर्शि तम्
पू र्वं वा त्पक्ष
स्त स्मि न्ना दुत्त रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.