३.६८
तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोरिदं तदीयम्। अङ्गं शरीरं परामृशन्, तं रघुमभ्यनन्दत् ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
भ्य न्दत्प्र मंप्र बोधि तः
प्र जेश्व रः शा हारि णा रेः
रामृ न्हर्ष डे पाणि ना
दी ङ्गंकुलिव्र णाङ्कि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.