३.६४
ततो निषङ्गादमसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन्। नाप्रहरन्तं प्रहरेत् इति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः। प्रियवशे वदः खच् (अष्टाध्यायी ३.२.३८ ) इति खच्प्रत्ययः। अरुर्द्विषट्- (अष्टाध्यायी ६.३.६७ ) इत्यादिना मुमागमः। नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत्। न तु प्राहरदिति भावः॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२१३
तोनि ङ्गाग्र मुद्धृ तं
सुर्ण पु ङ्खद्युतिञ्जि ताङ्गु लिम्
रेन्द्र सू नुःप्रति संन्नि षुं
प्रि यं दः प्रत्यत्सु रेश्व रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.