२.७४
पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥
सञ्जीविनीटीका (मल्लिनाथः) पुरंदरेति॥ पुरः पुरीरसुराणां दारयतीति पुरंदरः शकः। पूःसर्वयोर्दारिसहोः (अष्टाध्यायी ३.२.४१ ) इति खच्प्रत्ययः। वाचंयमपुरंदरौ च (अष्टाध्यायी ६.३.६९ ) इति मुमागमो निपातितः। तस्य श्रीरिव श्रीर्यस्यसः। स नृपः पौरैरभिनन्द्यमानः। उत्पताकमुच्छ्रितध्वजम्। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् इत्यमरः (अमरकोशः २.८.९९ ) । पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रुषु इत्यमरः (अमरकोशः २.८.९९ ) । भुजे भूयो भूमेर्धुरमाससञ्ज अर्पितवान्॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पु रं श्रीःपु मुत्प ता कं
प्र विश्य पौ रैभिन्द्य मा नः
भु जेभु जं गेन्द्र मा सा रे
भू यः भू मेर्धु माञ्ज
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.