१३.९
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥
सञ्जीविनीटीका (मल्लिनाथः) मुखेति॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। सिन्धुः समुद्रे नद्यां च इति विश्वः। स्वयं पिबति पाययतेच । तरंगाधरमिति शेषः। न पादम्याङ्यमा- (अष्टाध्यायी १.३.७९ ) इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। गतिबुद्धिप्रत्यवसानार्थ- (अष्टाध्यायी १.४.५२ ) इत्यादिना सिन्धूनां कर्मत्वम्। दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
मु खार्प णे षुप्रकृ तिप्र ल्भाः
स्व यं रं गा दा क्षः
न्य सा मान्यत्र वृ त्तिः
पित्य सौ पा ते सि न्धूः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.