१३.७
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥
सञ्जीविनीटीका (मल्लिनाथः) पक्षेति॥ पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र सत्सूद्विष- (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप्। आत्तगन्धा हृदगर्वाः। अभिभूता इत्यर्थः। गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोःइति विश्वः। आत्तगन्धोऽभिभूतः स्यात् इत्यमरः। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम्। परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्‌मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव। आश्रयन्ते। अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः इति कामन्दकः। आर्तबन्धुरिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
क्षच्छि दा गोत्रभि दात्त न्धाः
ण्य मे नं शो ही ध्राः
नृ पा वोप्लवि नः रे भ्यो
र्मोत्त रंध्य माश्र न्ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.