१३.२२
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥
सञ्जीविनीटीका (मल्लिनाथः) अमी इति॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि। पर्णशालोटजोऽस्त्रियाम् इत्यमरः (अमरकोशः २.२.६ ) । चिरोैज्झितानि। राक्षसभयादित्यर्थः। आश्रममण्डलान्याश्रमविभागान्। यथास्वं स्वमनतिक्रम्य। अध्यासतेऽधितिष्ठन्ति॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मी स्था पो वि घ्नं
त्वा माब्ध वो जानि
ध्या ते चीभृ तो था स्वं
चि रोज्झि ता न्याश्रण्ड लानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.