१२.११
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥
सञ्जीविनीटीका (मल्लिनाथः) विप्रोषितेति॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम्। अस्तमितो मृत ईश्वरो राजा यस्या तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। आमिषं भोग्यवस्तुनिइति केशवः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि प्रोषिकु मा रं
द्राज्यस्तमि तेश्व रम्
न्ध्रा न्वे क्षा णां
द्वि षा मामि तां यौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.