११.४७
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥
सञ्जीविनीटीका (मल्लिनाथः) दृष्टेति॥ अथ मैथइलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य दद्दृष्टसारम्। सारो बले स्थिरांशे च इत्यमरः (अमरकोशः ३.३.१७९ ) । वीर्यमेव शुल्कम्। धनुर्भङ्गरूपमित्यर्थः। अभिनन्द्य। राघवाय रामाय। अयोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान्। वाचेति शेषः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
दृष्ट सा रुद्र कार्मु के
वीर्य शुल्कभिन्द्य मैथि लः
रा वा या योनि जां
रूपि णींश्रिमिन्य वे यत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.