११.३९
अव्रवीञ्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥
सञ्जीविनीटीका (मल्लिनाथः) अब्ववीदिति॥ अब्रवीञअच। मुनिमिति शेषः किमिति? हे भगवन्मुने! बृहद्भिर्मतंगजैर्महागजैपरि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य । कलभः करिशावकः इत्यमरः (अमरकोशः २.८.३५ ) । मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
व्र वीञ्चन्मङ्ग जै
र्यद्बृद्भिपिर्म दुष्क रम्
त्र नानुन्तु मुत्स हे
मो वृत्तिस्य चेष्टि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.