११.३४
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शइलामयी ।
स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रत्यपद्यतेति॥ शिलामयी भतृशापाच्छिलत्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती। यत् स किल्बिषच्छिदां पापहारिणाम्। पापं किल्बिषकल्मषम् इत्यमरः (अमरकोशः १.४.२४ ) । रामपादरजसामनुग्रहः किलप्रसादः किलेति श्रूयते ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०१११२
प्रत्यद्यचि रात्पु
श्चारु गौ धूः ला यी
स्वं पुःकि किल्बिच्छि दां
रा पा सा नुग्र हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.