११.३१
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाक्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥
सञ्जीविनीटीका (मल्लिनाथः) ताविति॥ अवभृथे दीक्षान्त आप्लुतः स्नातो मुनिः। दीक्षान्तोऽवभृथो यज्ञे इत्यमरः (अमरकोशः २.७.२९ ) । प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तः प्रदेशेन। पवित्रेणेत्यर्थः। पाणिना समस्पृशत् संस्पृष्टवान्। संतोषादिति भावः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
तौप्र णा काक्ष कौ
भ्रा राभृ थाक्लु तोमु निः
शि षानु दंस्पृ
द्दर्भ पाटि ले पाणि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.