११.२९
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्वहिः ॥
सञ्जीविनीटीका (मल्लिनाथः) य इति॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार। क्षुरप्रैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः। कृती च कुशलः समौ इत्यमरः (अमरकोशः ३.३.११३ ) । आश्रमाद्बहिः। पत्रिणां पक्षिणाम्। पत्रिणौ शरपक्षिणौ इत्यमरः (अमरकोशः ३.३.११३ ) । व्यभजत्। विभज्य दत्तवानित्यर्थः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
यःसु बाहुरिति राक्ष सोऽप
स्तत्रत्रविर्प मा या
तंक्षुप्र लीकृ तंकृ ती
त्रि णांव्य दाश्र माद्व हिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.