१०.३३
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम्। प्रसादयामासुः प्रसन्नं चक्रुः। हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः। युक्ते क्ष्मादावृते भूतम् इत्यमरः (अमरकोशः ३.३.८५ ) । न स्तुतिर्न प्रशंसामात्रम्। महान्तो हि यथाकथंचिन्न सुलभा इति भावः। परमे स्थाने तिष्ठतीति परमेष्ठी। परमे कित्(उणा.४५०) इत्युणादिसूत्रेण तिष्ठतेरिनिः। तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.२.२ ) इति सप्तम्या अलुक्। स्थास्थिन्स्थृणाम् इति वक्तव्यात्षत्वम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तिप्र सा या मासु
स्तेसु रास्त धोक्ष जम्
भू ता र्थ व्याहृ तिः साहि
स्तु तिः मेष्ठि नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.