१०.२८
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रत्यक्ष इति॥ प्रत्यक्षः प्रत्यक्षप्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैश्वर्यमपरिच्छेद्यः। इयत्तया नावधार्यः। आप्तवाग्वेदः। यतो वा इमानि भूतानि जायन्ते(तैत्तिरीय.३।१) इत्यादिश्रुतेः। अनुमानं क्षित्यादिकं सकर्तृकं कार्यत्वात्, घटवत्इत्यादिकम्। ताभअयां साध्यं गम्यं त्वां प्रति का कथा? प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम्, तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्यव्यमित्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र त्य क्षोऽप्य रि च्छे द्यो
ह्या दिर्महि मा
प्त वानु मा ना भ्यां
सा ध्यं त्वांप्रति का था
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.