१.७४
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबिन्धकारणमपश्यत्। अथानन्तरमेनं नृपं प्रत्यबोधयत्। स्वदृष्टं ज्ञापितवानित्यर्थः। एनमिति गतिबुद्धि- (अष्टाध्यायी १.४.५२ ) इत्यादिनाणि कर्तुः कर्मत्वम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सो ऽप श्यत्प्रणि धा ने
सं तेः स्तम्भ का णम्
भावि ता त्माभु वोर्तु
थै नं प्रत्य बो यत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.