१.७१
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥
सञ्जीविनीटीका (मल्लिनाथः) असह्येति॥ हे भगवन्! मे ममान्त्यमृणं पैतृकमृणम्। अनिर्वाणस्य मज्जनरहितस्य। निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने इति यादवः। दन्तिनो गजस्य। अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक्। व्रणोऽस्त्रियामीर्ममरुः इति। अरुंतुदं तु मर्मस्पृक् इति चामरः। विध्वरुषोस्तुदः (अष्टाध्यायी ३.२.३५ ) इति खश्प्रत्ययः। अरुर्द्विषत्- (अष्टाध्यायी ६.३.६७ ) इत्यादिना मुमागमः। आलानं गजबन्धनस्तम्भमिव। आलानं बन्धनस्तम्भे इत्यमरः। असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि। दुःसहदुःखजनकं विद्धीत्यर्थः। निर्वाणोत्थानशयनानि त्रीणि गजकर्माणिइति पालकाप्ये। ऋणं देवस्य यागेन ऋषीणां दानकर्मणा। संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ह्य पी डं
न्नृन्त्य वेहि मे
रुन्तुमि वा ला
नि र्वास्यन्ति नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.