१.६३
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ॥
सञ्जीविनीटीका (मल्लिनाथः) पुरुषेति॥ आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। शतायुर्वै पुरुषः इति श्रुतेः। अचतुर- (अष्टाध्यायी ५.४.७७ ) आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः, आतङ्को भयमाशङ्का इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम् इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । ब्रह्महस्तिभ्यां वर्चसः (अष्टाध्यायी ५.४.७८ ) इत्यच्प्रत्ययः। अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति कामन्दकः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पुरु षायु जी वि न्यो
नि रा ङ्कानि री यः
न्म दी याःप्र जा स्तस्य
हे तु स्त्व द्बह्मर्च सम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.