१.६
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥
सञ्जीविनीटीका (मल्लिनाथः) यथाविधीति॥ विधिमनतिक्रम्य यथाविधि। यथासादृश्ये (अष्टाध्यायी २.१.७ ) इत्यव्ययीभावः। तथा हुतशब्देन सुप्सुपेति समासः। एवं यथाकामार्जित- इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थाविधिहु ता ग्नी नां
था का मार्चि तार्थि नाम्
था रा ण्डा नां
था काप्र बोधि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.