१.५४
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोहत्पत्नीं रथादवततार च ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। धुरो यड्ढकौ (अष्टाध्यायी ४.४.७७ ) इति यत्प्रत्ययः। धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। विश्रमय इति ह्रस्वपाठे जनीजॄष्-, इति मित्वे १मितां ह्रस्वः इति ह्रस्वः। दीर्घपाठे मितां ह्रस्वः (अष्टाध्यायी ६.४.९२ ) इति सूत्रे वा चित्तविरागे इत्यतो वाइत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ता मादि
श्य धु र्या न्वि श्रा येति
सः ता वा रो त्प त्नीं
था ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.