१.५२
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥
सञ्जीविनीटीका (मल्लिनाथः) आतपात्ययेति॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु। नीवारास्तृणधान्यानि इत्यमरः। उटजानां पर्णशालानामङ्गनभूमिषु चत्वरस्थानेषु। पर्णशालोटजोऽस्त्रियाम् इति। अङ्गनं चत्वराजिरे इति चामरः। निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पात्य सं क्षिप्त
नी वा रासुनि षादि भिः
मृ गै र्वर्ति रोन्थ
मु जाङ्ग भूमिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.