१.३०
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। वेला कूलेऽपि वारिधेः इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥ इत्यमरः (अमरकोशः २.२.३ ) । परितः खातं परिखा दुर्गवेष्टनम्। खातं खेयं तु परिखा इत्यमरः (अमरकोशः २.२.३ ) अन्येष्वपि दृश्यते (अष्टाध्यायी ३.२.१०१ ) इत्यत्र अपि शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वे लाप्र यां
रि खीकृ सा राम्
न्य शा ना मु र्वीं
शा सैपु रीमि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.