९.६९
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इति पूर्वोक्तप्रकारेण। आत्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम्। विस्मृतात्मकार्यान्तरमित्यर्थः। सचिवैरवलम्बिता धृता धूर्यस्य तम्। ऋक्पूरब्धूः पथामानक्षे (अष्टाध्यायी ५.४.७४ ) इति समासान्तोऽच्प्रत्ययः। अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम्। मृग्यन्ते यस्यां मृगा इति मृगया। परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्(वा.२२१५) इति शप्प्रत्ययान्तो निपातः। चतुरा विदग्धा कामिनीव। जहाराचकर्ष। न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ इति भावः ॥
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
ति विस्मृ तान्य णी मात्म नः
चि वाम्बिधु रं राधि पम्
रि वृद्ध रानुन्ध से या
मृ या हातु रे कामि नी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.