८.४
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृताक्रियः ।
पवनाग्निसमागमो ह्ययं सहतिं ब्रह्म यदस्त्रतेजसा ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। पवनाग्निइत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् द्वन्द्वे घि (पा.२।२३२)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते॥ इति ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
भूदु रा दः रै
र्गुरु णा ऽथर्ववि दाकृ ताक्रि यः
नाग्नि मा मोह्य यं
तिं ब्रह्मस्त्र ते सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.