८.१०
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थः। उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। धर्मादनिच्केवलात् (अष्टाध्यायी ५.४.१२४ ) इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
वीक्ष्य घुःप्र तिष्ठि तं
प्रकृ ति ष्वात्म मात्मत्त या
वि येषुवि नार्मसु
त्रिदि स्थेष्वपि निःस्पृ होऽभ वत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.