७.५९
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥
सञ्जीविनीटीका (मल्लिनाथः) सर्वैरिति॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम् इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम् इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
र्वैर्ब ला ङ्गैर्द्विप्र धा नैः
र्वायु धैःङ्क भेदि भिश्च
र्वप्र त्ने भूमि पा ला
स्त स्मिन्प्र ह्रुर्युधिर्व
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.