४.८७
सत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥
सञ्जीविनीटीका (मल्लिनाथः) सत्रान्त इति॥ काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च इत्यमरः (अमरकोशः २.८.१ ) । सचिवानाममात्यानां सखेति सचिवसखः सन्। सचिवो भृतकेऽमात्ये इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। राजाहःसखिभ्यष्टच् (अष्टाध्यायी ५.४.९१ ) गुर्वीभिर्महतीभिः। गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान्। दुःखे वैलक्ष्ये व्यलीकम् इति यादवः। चिरविरहेणोत्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान्। राज्ञोऽपत्यानि राजन्याः क्षत्रियाः। तान्। राजश्वशुराद्यत् (अष्टाध्यायी ४.१.१३७ ) इत्यपत्यार्थे यत्प्रत्ययः। मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् इत्यमरः (अमरकोशः २.८.१ ) । स्वपुरं प्रतिनिवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् । प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्इति ॥
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
त्रा न्तेचि खःपुस्क्रि याभि
र्गु र्वी भिःमि राव्य ली कान्
का कु त्स्थश्चिवि होत्सु का रो धा
न्रा न्यान्स्वपुनि वृत्त येऽनु मे ने
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.