४.८
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ हि यस्मात्कारणात् स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार। क इव? अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। दक्षिणो दक्षिणदिग्भवो नभस्वान् वायुरिव। मलयानिल इवेत्यर्थः। युक्तदण्डतया इत्यत्र कामन्दकः-उद्वेजयति तीक्ष्णेन मृदुना परिभूयते। दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ॥ इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि र्वस्य लोस्य
युक्तण्ड या नः
दे नाति शी तो ष्णो
स्वानिक्षि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.