४.२८
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित्। प्राचीनवर्हिरिन्द्रः। पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिस्तथाइतीन्द्रपर्यायेषु हलायुधाभिधानात्। तेन तुल्यः स रघुः। अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान् रिपून्। तर्जयन्निव भर्त्सयन्निव। तर्जभिर्त्स्योरनुदात्तेत्त्वे।ञपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः। प्रथमं प्राचीं दिशं ययौ ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यौप्र मं प्रा चीं
तु ल्यः प्रा चीर्हि षा
हि तानि लो द्धू तै
स्तर्जन्नि केतु भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.