१३.२४
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) त्वमिति॥ हे भूरु भयशीले! ऊङुतः (अष्टाध्यायी ४.१.३६ ) इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। शाखा वृक्षान्तरे भुजेइति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(१।४९)-अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताःइति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्वंक्ष सा भीरु तोऽप नी ता
तं मार्ग मे ताःकृ या ता मे
र्श न्वक्तुक्नु त्यः
शा खाभि रार्जिल्ल वा भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.