१३.१६
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि! ।
मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥
सञ्जीविनीटीका (मल्लिनाथः) वेलेति॥ हे आयताक्षि!वेला स्यात्तीरनीरयोः इति विश्वः। वेलानिलः केतकरेणुभिस्त आननं संभावयति। किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्दतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम्। कर्मणि षष्ठी। कालहानिमसहमानं वेत्तीव वेत्ति किम्? नो चेत्कथं संभावयेदित्यर्थः ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
वे लानि लः के रेणु भि स्ते
सं भा त्या मा ताक्षि
माक्ष मंण्ड का हा ने
र्वे त्ती बि म्बाद्ध तृ ष्णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.