१२.९३
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥
सञ्जीविनीटीका (मल्लिनाथः) विक्रमेति॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि। अन्तरा मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव। सामान्या साधारणाऽभूत्। न त्वन्यतरनियतेत्यर्थः। अत्र मत्तवारणयोःइत्यत्र द्वयोःइत्यत्र च अन्तरान्तरेण युक्ते (अष्टाध्यायी २.३.४ ) इति द्वितीया न भवति। अन्तरा शब्दस्योक्तरीत्याऽन्यत्रान्वयात्। मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
विक्रव्यति हा रे
सा मा न्या ऽभूद्द्व योपि
श्रीन्त रा वेदि
र्मत्त वा योरि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.