१२.५४
तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) ताविति॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ। दर्शर्लङि रूपम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तौ सी ता न्वेषि णौ गृ ध्रं
लूक्षश्य ताम्
प्रा णैर्द प्री ते
नृ णंण्ठर्ति भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.