११.८९
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥
सञ्जीविनीटीका (मल्लिनाथः) राघव इति॥ राघवोऽपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत् प्रणनाम। तथा हि-तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये। भवतीति शेषः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
रा वोऽपि णौ पोनि धेः
क्षम्य तामितिन्सस्पृ शत्
निर्जि तेषु सास्वि नां
त्रु षुप्रति रे कीर्त ये
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.