११.७९
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥
सञ्जीविनीटीका (मल्लिनाथः) एवमिति॥ भीमदर्शने भार्गव एवमुक्तवति सति। राघवः स्मितेन हासेन विकम्पिताधरः सन्। तद्धनुर्ग्रहणमेव समर्थमुचितामुत्तरं प्रत्यपद्यताङ्गीचकार ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
मुक्तति भीर्श ने
भार्ग वेस्मिविम्पि ता रः
द्ध नुर्ग्र मे रा वः
प्रत्यद्यर्थ मुत्त रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.