११.५०
अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षितम् ॥
सञ्जीविनीटीका (मल्लिनाथः) अन्वियेषेति॥ स दशरथशअच सदृशीमनुरूपां स्नुषामन्वियेष। रामविवाहमाचकाङ्क्षेत्यर्थः। अनुकूलवाक् स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्च। एनं दशरथं प्राप। तथा हि-कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि। कर्मकर्तरि लट्। स्वयमेव पक्वं भवतीत्यर्थः। कर्मवत्कर्मणा तुल्यक्रियः (अष्टाध्यायी ३.१.८७ ) इति कर्मवपद्भावात् भावकर्मणोः (अष्टाध्यायी १.३.१३ ) इत्यात्मनेपदम् ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
न्वि येदृ शींस्नु षां
प्रा चैनु कू वाग्द्वि जः
द्यसुकृ तांहिच्य ते
ल्प वृक्षर्मि काङ्क्षि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.