११.१
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥
सञ्जीविनीटीका (मल्लिनाथः) कौशिकेनेति॥ कौशिकेन कुशिकापत्येन विश्वामित्रेण। एत्याभ्यागत्य। स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय। काकपक्षधरं बालकोचितशिखाधरम्। बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः इति हलायुधः। रामं याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। अप्रधाने दुहादीनाम् इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि। अप्रप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धतावृत्तम्। उक्तं च-रान्नराविह रथोद्धता लगौ इति ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
कौशि केकिक्षि तीश्व रो
राध्ववि घा शान्त ये
काक्ष मेत्य याचि
स्ते सांहि यः मीक्ष्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.