१०.७०
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥
सञ्जीविनीटीका (मल्लिनाथः) कैकेय्या इति॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी। तस्यापत्यम् (अष्टाध्यायी ४.१.९२ ) इत्यणि कृते केकयमित्रयुप्रलयानां यादेरियः (अष्टाध्यायी ३.२.५० ) इतीयादेशः। तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः। यस्तनयः। प्रश्रयो विनयः श्रियमिव। जनयित्रीं मातरमलंचक्रे ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कै के य्यास्त यो ज्ञे
तो ना शी वान्
यि त्री लं क्रे
यः प्रश्रश्रि यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.