शिखरिणी

लक्षणम्

रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी

गणाः

यमनसभलग (१७)

यतिः

६, ११

उदाहरणम्

विजेतव्या लंका चरणतरणीयो जलनिधिः विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । पदातिर्मर्त्योऽसौ सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे॥

छन्दोविश्लेषणम्

१०१११२१३१४१५१६१७
वि जे व्या लं का णी योनि धिः
वि क्षः पौ स्त्योभुवि हा याश्च यः
दा ति र्म र्त्यो ऽसौ धी द्राक्षकु लं
क्रि या सि द्धिः त्त्वेति तां नो णे
गानपद्धतिः
शतावधानी डॉ. गणेशः विश्वमुख्त्यारः