शार्दूलविक्रीडितम्

लक्षणम्

सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्

गणाः

मसजसततग (१९)

यतिः

१२, ७

उदाहरणम्

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

छन्दोविश्लेषणम्

१०१११२१३१४१५१६१७१८१९
या कु न्देन्दुतु षा हा ला या शुभ्र स्त्रावृ ता
या वी णाण्डण्डि रा या श्वे द्मा ना
या ब्र ह्माच्यु शंप्रभृति भि र्दे वैः दान्दि ता
सा मां पातुस्व ती ती निः शे जा ड्या हा
गानपद्धतिः
शतावधानी डॉ. गणेशः विश्वमुख्त्यारः