प्रमुदितवदना

लक्षणम्

प्रमुदितवदना भवेन्नौ ररौ

गणाः

ननरर (१२)

उदाहरणम्

भवति च यदि धर्मलोपोऽथवा प्रबलतर इहाप्यधर्मो यदा । मम भवति तदावतारोऽर्जुन सदवन-खलदण्डनार्थं सदा ॥

छन्दोविश्लेषणम्

१२३४५६७८९१०१११२
भवतिचयदि धर्म लो पोऽथ वा
प्रबलतरइ हाप्य ध र्मोय दा
ममभवतित दाव ता रोऽर्जुन
सदवनखल दण्ड ना र्थंस दा
ननरर